|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.335. अध्यायः 335
Mahabharata - Shanti Parva - Chapter Topics
जनकाभ्यनुज्ञातेन शुकेन व्यासमेत्य स्वस्य जनकेन सह संवादप्रकारकथनम्॥ 1॥ व्यासस्य वैशम्पायनादिभिः सह संवादः॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-335-0x(6549)(79019)
एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः।
आत्मनाऽऽत्मानमास्थाय दृष्ट्वा चात्मानमात्मना॥ 12-335-1(79020)
कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्भुखः।
शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः॥ 12-335-2(79021)
एतस्मिन्नेव काले तु देवर्षिर्नारदस्तथा।
हिमवन्तमियाद्दुष्टुं सिद्धचारणसेवितम्॥ 12-335-3(79022)
तमप्सरोगाकीर्णं गीतस्वननिनादितम्।
किन्नराणां सहस्रैश्च भृङ्गराजैस्तथैव च॥ 12-335-4(79023)
मद्गुभिः खञ्जरीटैश्च विचित्रैर्जीवजीवकैः॥ 12-335-5(79024)
चित्रवर्णैर्मयूरैश्च केकाशतविराजितैः।
राजहंससमूहैश्च हृष्टैः परभृतैस्तथा॥ 12-335-6(79025)
पक्षिराजो गरुत्मांश्च यं नित्यमधितिष्ठति।
चत्वारो लोकपालाश्च देवाः सर्षिगणास्तथा॥ 12-335-7(79026)
तत्र नित्यं समायान्ति लोकस्य हितकाम्यया।
विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना॥ 12-335-8(79027)
तत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः।
शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमन्य वै॥ 12-335-9(79028)
तत्रोवाच जगत्स्कन्दः क्षिपन्वाक्यमिदं तदा।
योऽन्योस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः॥ 12-335-10(79029)
यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान्।
सोभ्युद्धरत्विमां शक्तिमथवा कम्पयत्विति॥ 12-335-11(79030)
तच्छुत्वा व्यथिता लोकाः क इमामुद्धरेदिति।
अथ देवगणं सर्वं संभ्रान्तेन्द्रियमानसम्॥ 12-335-12(79031)
अपश्यद्भगवान्विष्णुः क्षिप्तं सासुरराक्षसम्।
किंन्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन्॥ 12-335-13(79032)
अनामृष्य ततः क्षेपमवैक्षत च पाविकम्।
संप्रगृह्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा॥ 12-335-14(79033)
कम्पयामास सव्येन पाणिना पुरुषोत्तमः।
शक्त्यां तु कम्प्यमानायां विष्णुना बलिना तदा॥ 12-335-15(79034)
मेदिनी कम्पिता सर्वा सशैलवनकानना।
शक्तेनापि समुद्धर्तुं कम्पिता साऽभवत्तदा॥ 12-335-16(79035)
रक्षिता स्कन्दराजस्य धर्षणा प्रभविष्णुना।
तां कम्पयित्वा भगवान्प्रह्लादमिदमब्रवीत्॥ 12-335-17(79036)
पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति।
सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः॥ 12-335-18(79037)
जग्राह तां तदा शक्तिं न चैनामभ्यकम्पयत्।
नादं महान्तं मुक्त्वा स मूर्च्छितो गिरिमूर्घनि॥ 12-335-19(79038)
विह्वलः प्रापतद्भूमौ हिरण्यकशिपोः सुतः।
तत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः॥ 12-335-20(79039)
तपोऽतप्यत दुर्घर्षं तात नित्यं वृषध्वजः।
पावकेन परिक्षिप्तं दीप्यता यस्य चाश्रमम्॥ 12-335-21(79040)
आदित्यपर्वतं नाम दुर्घर्षमकृतात्मभिः।
न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः॥ 12-335-22(79041)
दशयोजनविस्तारमग्निज्वालसमावृतम्।
भगवान्पावकस्तत्र स्वयं तिष्ठति वीर्यवान्॥ 12-335-23(79042)
सर्वान्विघ्नान्प्रशमयन्महादेवस्य धीमतः।
दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः॥ 12-335-24(79043)
देवान्संतापयंस्तत्र महादेवो महाव्रतः।
ऐन्द्रीं तु दिशमास्थाय शैलराजस्य धीमतः॥ 12-335-25(79044)
विविक्ते पर्वततटे पाराशर्यो महातपाः।
वेदानध्यापयामास व्यासः शिष्यान्महातपाः॥ 12-335-26(79045)
सुमन्तुं च महाभागं वैशम्पायनमेव च।
जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम्॥ 12-335-27(79046)
एभिः शिष्यैः परिवृतो व्यास आस्ते महातपाः।
तत्राश्रमपदं रम्यं ददर्श पितुरुत्तमम्।
आरणेयो विशुद्धात्मा नभसीव दिवाकरः॥ 12-335-28(79047)
अथ व्यासः परिक्षिप्तं ज्वलन्तमिव पावकम्।
ददृशे सुतमायान्तं दिवाकरसमप्रभम्॥ 12-335-29(79048)
असज्जमानं वृक्षेषु शैलेषु विषयेषु च।
योगयुक्तं महात्मानं यथा बाणं गुणच्युतम्॥ 12-335-30(79049)
सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः।
यथोपजोषं तैश्चापि समागच्छन्महामुनिः॥ 12-335-31(79050)
ततो निवेदयामास पित्रे सर्वमशेषतः।
शुको जनकराजेन संवादं प्रीतमानसः॥ 12-335-32(79051)
एवमध्यापयञ्शिष्यान्व्यासः पुत्रं च वीर्यवान्।
उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः॥ 12-335-33(79052)
ततः कदाचिच्छिष्यास्तं परिवार्यावतस्थिरे।
वेदाध्ययनसंपन्नाः शान्तात्मानो जितेन्द्रियाः॥ 12-335-34(79053)
वेदेषु निष्ठां संप्राप्य साङ्गेष्वपि तपस्विनः।
अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम्॥
शिष्या ऊचुः। 12-335-35(79054)
महता तेजसा युक्ता यशसा चापि वर्धिताः।
एकं त्विदानीमिच्छामो गुरुणाऽनुग्रहं कृतम्॥ 12-335-36(79055)
इति तेषां वचः श्रुत्वा ब्रह्मर्षिस्तानुवाद ह।
उच्यतामिति तद्वत्सा यद्वः कार्यं प्रियं मया॥ 12-335-37(79056)
एतद्वाक्यं गुरोः श्रुत्वा शिष्यास्ते हृष्टमानसाः।
पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम्॥ 12-335-38(79057)
ऊचुस्ते सहिता राजन्निदं वचनमुत्तमम्।
यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम॥ 12-335-39(79058)
काङ्क्षामस्तु वयं सर्वे वरं दत्तं महर्षिणा।
पष्ठः शिष्यो न ते ख्यातिं गच्छेदत्र प्रसीद नः॥ 12-335-40(79059)
चत्वारस्ते वयं शिष्या गुरुपूत्रश्च पञ्चमः।
इह वेदाः प्रतिष्ठेरन्नेष नः काङ्क्षितो वरः॥ 12-335-41(79060)
शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित्।
पराशरात्मजो धीमान्परलोकार्थचिन्तकः॥ 12-335-42(79061)
उवाच शिष्यान्धर्मात्मा धर्म्यं नैःश्रेयसं वचः।
ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे तथा॥ 12-335-43(79062)
ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षते।
भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम्॥ 12-335-44(79063)
नाशिष्ये संप्रदातव्यो नाव्रते नाकृतात्मनि।
एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः।
नापरीक्षितचारित्रे विद्या देया कथंचन॥ 12-335-45(79064)
यथा हि कनकं शुद्धं तापच्छेदनिकर्षणैः।
परीक्षेत तथा शिष्यानीक्षेत्कुलगुणादिभिः॥ 12-335-46(79065)
न नियोज्याश्च वः शिष्या अनियोगे महाभये।
यथामति यथापाठं तथा विद्या फलिष्यति॥ 12-335-47(79066)
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु।
श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः॥ 12-335-48(79067)
वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम्।
स्तुत्यर्थमिह देवानां वेदाः सृष्टाः स्वयंभुवा॥ 12-335-49(79068)
यो निर्वदेत संमोहाद्ब्राह्मणां वेदपारगम्।
सोऽभिध्यानाद्ब्राह्मणस्य पराभूयादसंशयम्॥ 12-335-50(79069)
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति।
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति॥ 12-335-51(79070)
एतद्वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति।
उपकुर्याच्च शिष्याणामेतच्च हृद्वि वो भवेत्॥ ॥ 12-335-52(79071)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि पञ्चत्रिंशदधिकत्रिशततमोऽध्यायः॥ 335॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-335-2 शैशिरं गिरिं हिमालयम्॥ 12-335-4 सहस्रैश्च राजहँसैस्तथैव चेति ड. पाठः॥ 12-335-24 आसीदिति शेषः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|